Wednesday, June 11, 2014

Rudram

॥ श्री रुद्रप्रश्नः ॥

 

॥ न्यासः ॥

अस्य श्री रुद्राद्याय प्रश्न महामन्त्रस्य अघोर ऋषिः अनुष्टुप् छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता ॥

नमःशिवायेति बीजम् । शिवतरायेति शक्तिः । महादेवायेति कीलकम् ।

श्री सांबसदाशिव प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ओं अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः । दर्शपूर्णमासात्मने तर्जनीभ्यां नमः ।

चातुर्मास्यात्मने मध्यमाभ्यां नमः । निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ।

ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः । सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः ॥

ओं अग्निहोत्रात्मने हृदयाय नमः । दर्शपूर्णमासात्मने शिरसे स्वाहा ।

चातुर्मास्यात्मने शिकायै वषट्। निरूढपशुबन्धात्मने कवचाय हुम्। ज्योतिष्ठोमात्मने नेत्रत्रयाय वौषट् । सर्वक्रत्वात्मने अस्त्राय फट्॥

भूर्भुवसुवरोमिति दिग्बन्धः ॥

 

 

॥ ध्यानम् ॥

 

आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर-

ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः ।

अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्

ध्यायेदीप्सित सिद्धयेऽद्रुतपदं विप्रोऽभिषिञ्चेच्छिवम् ॥

 

ब्रह्माण्ड व्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः

कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।

त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शांभवा मूर्तिभेदाः

रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥

 

ओं ग॒णा॑नां त्वा ग॒णप॑तिóèहवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑ स्सीद॒ साद॑नम् ॥ महागणपतेये नमः ॥

 

॥ ओं नमो भगवते॑ रुद्रा॒य ॥

 

नम॑स्ते रुद्रम॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ ।

नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑-मु॒त ते॒ नमः॑ ॥ १.१॥

 

यात॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑ ।

शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ॥ १.२॥

 

या ते॑ रुद्र शि॒वा त॒नू-रघो॒राऽपा॑पकाशिनी ।

तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शंता॒भिचा॑कशीहि ॥ १.३॥

 

यामिषुं॑ गिरिशंत॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे ।

शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिóè॑सीः॒ पुरु॑षं॒ जग॑त् ॥ १.४॥

 

शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि ।

यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मóèसु॒मना॒ अस॑त् ॥ १.५॥

 

अध्य॑वोचदधि व॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।

अहीóè॑श्च॒ सर्वा॓ञ्जं॒भय॒न्त्सर्वा॓श्च यातुधा॒न्यः॑ ॥ १.६॥

 

अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑मं॒गलः॑ ।

ये चे॒माóèरु॒द्रा अ॒भितो॑ दि॒क्षु ।

श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒óè॒हेड॑ ईमहे ॥ १.७॥

 

अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।

उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्यः॑ ।

उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ॥ १.८॥

 

नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॓ ।

अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकर॒न्नमः॑ ॥ १.९॥

 

प्रमुं॑च॒ धन्व॑न॒स्त्व-मु॒भयो॒-रार्त्नि॑यो॒-र्ज्याम् ।

याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ॥ १.१०॥

 

अ॒व॒तत्य॒ धनु॒स्त्वóè सह॑स्राक्ष॒ शते॑षुधे ।

नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥ १.११॥

 

विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाóè उ॒त ।

अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निषं॒गथिः॑  ॥ १.१२॥

 

या ते॑ हे॒ति-र्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।

तया॒ऽस्मान्वि॒श्वत॒स्त्व-म॑य॒क्ष्मया॒ परि॑ब्भुज ॥ १.१३॥

 

नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे॓ ।

उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥ १.१४॥

 

परि॑ ते॒ धन्व॑नो हे॒ति-र॒स्मान्वृ॑णक्तु वि॒श्वतः॑ ।

अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ॥ १.१५॥

 

नम॑स्ते अस्तु भगवन् विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यंब॒काय॑

त्रिपुरान्त॒काय॑ त्रिकाग्नि-का॒लाय॑ कालाग्निरु॒द्राय॑

नीलक॒ण्ठाय॑ म्रुत्युंज॒याय॑ सर्वेश्व॒राय॑

सदाशि॒वाय॑ श्रीमन्महादे॒वाय॒ नमः॑ ॥

 

नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑

वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑

स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॑

बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॒

हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒ नमो॑

भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑

रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑

सू॒तायाह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒ नमो॑

रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑

म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नमो॑

भुवं॒तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नम॑

उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒ नमः॑

कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमः॑ ॥

 

नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒

पत॑ये॒ नमो॒ नमः॑

ककु॒भाय॑ निष॒ङ्गिणे॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑

निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒

वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑

निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ नमः॑

सृका॒विभ्यो॒ जिघाóè॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑

ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒ नम॑

उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑

इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ नम॑

आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑

आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒ नमो

ऽस्य॑द्भ्यो॒ विद्ध्य॑द्भ्यश्च वो॒ नमो॒ नम॒

आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमो॒ नमः॑

स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒-

स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒ नमः॑

स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो॒

अश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमः॑ ॥

 

नम॑ आव्या॒धिनी॓भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒

उग॑णाभ्यस्तृóèह॒तीभ्य॑श्च वो॒ नमो॒ नमो॑

गृ॒त्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒ नमो॒

व्राते॓भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॑

ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒

वि॒रू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ नमो॑

म॒हद्भ्यः॑ क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒ नमो॑

र॒थिभ्यो॑ऽर॒थेभ्य॑श्च वो॒ नमो॒ नमो॒ रथे॓भ्यो

रथ॑पतिभ्यश्च वो॒ नमो॒ नमः॒

सेना॓भ्यः सेन॒निभ्य॑श्च वो॒ नमो॒ नमः॑

क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नम॒-

स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒

कुला॑लेभ्यः क॒र्मारे॓भ्यश्च वो॒ नमो॒ नमः॑

पु॒ञ्जिष्टे॓भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒ नम॑

इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च वो॒ नमो॒ नमो॑

मृग॒युभ्यः॑ श्व॒निभ्य॑श्च वो॒ नमो॒ नमः॒

श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमः॑ ॥

 

नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒

नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒

नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒

नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒

नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒

नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒ नमो॓ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒

नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒

नमो॑ वृ॒द्धाय॑ च सं॒वृद्ध्व॑ने च॒

नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चाजि॒राय॑ च॒

नमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒

नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒

नमः॑ स्रोत॒स्याय॑ च॒ द्वीप्या॑य च ॥

 

नमो॓ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒

नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒

नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒

नमो॑ जघ॒न्याय॑ च॒ बुध्नि॑याय च॒

नमः॑ सो॒भ्या॑य च प्रतिस॒र्या॑य च॒

नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒

नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒

नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒

नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒

नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च

नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒

नमः॒ शूरा॑य चावभिन्द॒ते च॒

नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒

नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒

नमः॑ श्रु॒ताय॑ च  श्रुतसे॒नाय॑ च ॥

 

नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒

नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒

नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च॒

नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒

नमः॒ सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च

नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒

नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒ध्रिया॑य चात॒प्या॑य च॒

नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒

नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ॥

 

नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒

नमः॑ श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒

नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒

नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒

नम॑स्ता॒राय॒ नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒

नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒

नमः॑ शि॒वाय॑  च शि॒वत॑राय च॒

नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒

नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒

नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒

नम॑ आता॒र्या॑य चाला॒द्या॑य च॒

नमः॒ शष्प्या॑य च॒ फेन्या॑य च॒

नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥

 

नम॑ इरि॒ण्या॑य च प्र॒पथ्या॑य च॒

नमः॑ किóèशि॒लाय॑ च॒ क्षय॑णाय च॒

नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒

नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒

नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒

नमः॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒

नमो॓ हृद॒य्या॑य च निवे॒ष्प्या॑य च॒

नमः॑ पाóèस॒व्या॑य च रज॒स्या॑य च॒

नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒

नमो॒ लोप्या॑य चोल॒प्या॑य च॒

नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒

नमः॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒

नमो॑ऽपगु॒रमाणाय चाभिघ्न॒ते च॒

नम॑ आख्खिद॒ते च॑ प्रख्खिद॒ते च॒

नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒óè॒ हृद॑येभ्यो॒

नमो॑ विक्षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒

नम॑ आनिर्ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑ ॥

 

द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित ।

ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्मारो॒ मो ए॑षां॒

किंच॒नाम॑मत् ॥ १०.१॥

 

या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑ भेषजी ।

शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॓ ॥ १०.२॥

 

इ॒माóèरु॒द्राय॑ त॒वसे॑ कप॒र्दिने॓ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिम् ।

यथा॑ नः॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑

अ॒स्मिन्नना॑तुरम् ॥ १०.३॥

 

मृ॒डा नो॑ रुद्रो॒तनो॒ मय॑स्कृधि क्ष॒य॑द्वीराय॒ नम॑सा विधेम ते ।

यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ॥ १०.४॥

 

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्त-मु॒त मा न॑ उक्षि॒तम् ।

मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ १०.५॥

 

मान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।

वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धी-र्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ १०.६॥

 

आरात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु ।

रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यथा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः॓ ॥ १०.७॥

 

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गन्न भी॒म-मु॑पह॒त्नुमु॒ग्रम् ।

मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेनाः॓ ॥ १०.८॥

 

परि॑णो रु॒द्रस्य॑ हेतिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।

अव॑ स्थि॒रा मघ॑वद्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥ १०.९॥

 

मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव ।

प॒र॒मे॒ वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न आच॑र॒ पिना॑कं॒ विभ्र॒दाग॑हि ॥ १०.१०॥

 

विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।

यास्ते स॒हस्रóè॑हे॒तयो॒ऽन्यम॒स्मन्निव॑पन्तु॒ ताः ॥ १०.११॥

 

स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑ ।

तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ १०.१२॥

 

स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या॓म् ।

तेषाóè॑सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि ॥ ११.१॥

 

अ॒स्मिन् म॑ह॒त्यर्ण॒वे॓ऽन्तरि॑क्षे भ॒वा अधि॑ ॥ ११.२॥

नील॑ग्रीवाः शिति॒कण्ठाः॓ श॒र्वा अ॒धः क्ष॑माच॒राः ॥ ११.३॥

नील॑ग्रीवाः शिति॒कण्ठा॒ दिवóè॑रु॒द्रा उप॑श्रिताः ॥ ११.४॥

ये वृ॒क्षेषु॑ स॒स्पिंज॑रा॒ नील॑ग्रीवा विलो॑हिताः ॥ ११.५॥

ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ ॥ ११.६॥

ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिबतो॒ जनान्॑ ॥ ११.७॥

ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ ॥ ११.८॥

ये ती॒र्थानि॑ प्र॒चर॑न्ति॒ सृ॒काव॑न्तो निष॒ङ्गिणः॑ ॥ ११.९॥

य ए॒ताव॑न्तश्च॒ भूयाóè॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।

तेषाóè॑सहस्र-योज॒ने ऽव॒धन्वा॑नि तन्मसि ॥ ११.१०॥

नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां ये॓ ऽन्तरि॑क्षे॒

ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒र्ष॒मिष॑व॒-स्तेभ्यो॒ दश॒

प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒

नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒

तं वो॒ जम्भे॑ दधामि ॥ ११.११॥

 

त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।

उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्यो-र्मु॑क्षीय॒ माऽमृता॓त् ॥ १॥

 

यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ ।

यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ २॥

 

तमु॑ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो वि॑श्वस्य॒ क्ष॑यति भेष॒जस्य॑ ।

यक्ष्वा॓म॒हे सौ॓मन॒साय॑ रु॒द्रं नमो॓भि र्दे॒वमसु॑रं दुवस्य ॥ ३॥

 

अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।

अ॒यं मे॓ वि॒श्व-भे॓षजो॒ऽयóè शि॒वाभि॑मर्शनः ॥ ४॥

 

ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।

तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ।

मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॓ ॥ ५॥

 

ओं नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ।

प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः ।

तेनान्नेना॓प्याय॒स्व ॥ ६॥

नमो रुद्राय विष्णवे मृत्युर्मे पाहि

 

॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

No comments:

Post a Comment